181

न विषं विषमं किञ्चिंन्न च पाशोऽस्ति तादृशः ।
मूर्च्छयन्तिं मृगाक्षीणां बध्नन्ति [च] दृशो जगत् ॥
अविरुद्धक्रियाविशेषोक्तिः ॥
न शस्त्रं निशितं किञ्चित्तादृशं नापि चामृतम् ।
स्त्रीणां कोपः प्रसादश्च हन्ति जीवयति क्षणम् ॥
विरुद्धक्रियाविशेषोक्तिः ॥
न किञ्चिन्मार्दवं तन्वि ! स्तनयोर्न च नम्रता ।
तथापि च तथैताभ्यां जनोऽयमतिरज्यते ॥
चाटुविशेषोक्तिः ॥
दिशा अनया अन्येप्यूहनीया विकल्पा इति ॥

॥ इति विशेषोक्तिचक्रम् ॥

तुल्ययोगितां योजयन्नाह—

विवक्षितगुणोत्कृष्टैर्यत् समीकृत्य कस्यचित् ।
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ ३२८ ॥

विवक्षितः प्रतिपादयितुमिष्टः कश्चिद्नुणो धर्मः साधुरसाधुर्वा तेनोत्कृष्टैरधिमात्रैः प्रसिद्धैः कैश्चिद्वस्तुभिः सह समीकृत्य वस्तुतोऽसाम्येऽपि तथाभावमारोप्य कस्यचिदर्थस्य पुरुषादेः कीर्तनमाख्यानम् । किमर्थम् ? स्तुतिः प्रशंसा निन्दा जुगुप्सा चार्थः प्रयोजनं यस्मिन् कीर्तने तत्तथा समीकृतस्य स्तुत्यर्थं निन्दार्थं वा, सा तल्लक्षणा तुल्ययोगिता स्मृता । तेन गुणेन तादृशां तुल्ययोगिताप्रतिपादनात्, तादर्थ्येन तुल्ययोगिता तथाविधोक्तिरिति ॥

तामुदाहरन्नाह—

यमः कुबेरो वरुणः सहस्राक्षो भवानपि ।
बिभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ ३२९ ॥