84b पि क्षणौ न तिष्ठन्ति । किं पुनश्चिरम् ? यदि परमेकं क्षणं तिष्ठन्ति । इह विवक्षितेन गुणेन क्षणमात्रास्थायित्वेनोत्कृष्टैः प्रतीतैस्तड़िद्विलसितैः समीकृत्य स्त्रीप्रेम्णामतिचपलतया निन्दार्थं कीर्तनमिति लक्षणं योजनीयम् ॥

॥ इति तुल्ययोगिताचक्रम् ॥

विरोधं निदर्शयन्नाह—

विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् ।
विरोधसाधनायैव स विरोधः स्मृतो यथा ॥ ३३१ ॥

विरुद्धानामन्योन्यप्रतिद्रन्द्विनां पदार्थानां क्रियागुणादीनां संसर्गस्य सन्निधेः दर्शनमवगमो यत्रोक्तिप्रकारे । किमर्थम् ? विरोधस्य विप्रतिषेधस्य साधनाय सविशेषं प्रत्यायनार्थमेव । अत एव विरोधप्रधानत्वात् स उक्तिविशेषः विरोध इति स्मृतः कथ्यते कविभिः । यथेत्युदाहरति ॥

कूजितं राजहंसानां वर्धते मदमञ्जुलम् ।
क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम् ॥ ३३२ ॥