184 उद्यानेषु मारुतैरुद्धूताश्चूतानां चम्पकानां च रेणवः पौष्पाः परागाः । पान्थानां विरहिणां लोचनमस्पृशन्तोऽपि दूर एव दृश्यमाना उदश्रयन्ति । उदस्रवन्तीत्यपि पठ्यते । उभयत्रापि रोदयन्तीत्यर्थः । तच्च विरुद्धम् । स्पृशतामेव रेणूनां नयनजलोद्गमनिमित्तत्वात् । कथमस्पृशन्त उदश्रयन्ति ? अत्र स्पर्शनिषेधोदश्रयणयोः क्रिययोर्विरोध इति द्रष्टव्यम् । कूजितमित्यादेः [२.३३२] अस्य च को विशेषः । उभयत्रापि क्रियाविरोधात् । तत्र भिन्नाधिकरणयोः क्रिययोर्विरोधः । इह त्वभिन्नाधिकरण्योरिति महान् विशेषः । अन्यत्राप्येवंप्रकारत्वाद्विशेषस्थितेरिति ॥

कृष्णार्जुनानुरक्ताऽपि दृष्टिः कर्णावलम्बिनी ।
याति विश्वसनीयत्वं कस्य ते कलभाषिणी ॥ ३३७ ॥

कलभाषिणि ! ते दृष्टिः कस्य नाम विश्वसनीयत्वम् विस्रब्धतां याति ? न कस्यचित् । कुतः ? यतः कृष्णे नारायणे कृष्णायां द्रौपद्यां वा अर्जुने धनञ्जये चानुरक्ता सती कर्णं तद्विपक्षमङ्गराजमवलम्बते भजते, तस्माद्विरुद्धपक्षपातिनी कथमियं विश्वास्वा खलेति शब्दच्छलेन विरोधः प्रतीयते । वस्तुतस्तु दृष्टिः कृष्णा श्यामा क्वचिदर्जुना धवला अनुरक्ता ताम्रा च स्निग्धा वा कर्णं च श्रुतिपथमायातत्वादवलम्बत इत्यविरोधः । श्लेषानुविद्धोऽयमीदृशो विरोधः प्रतिपत्तव्य इति ॥

विरोधमुपसं[हरति]—

इत्यनेकप्रकारोऽयमलङ्कारः प्रतायते ।

इति कथितेन क्रमेणायं विरोधोऽलङ्कारोऽनेको विचित्रः प्रकारो विकल्पोऽस्येति अनेकप्रकारः प्रतायते प्रसरति प्रतीयते लक्ष्यते वा ।

अपरोऽपि प्रकारः कश्चिदुदाह्रियते—

सद्वयोऽप्यद्वयः सोऽयमुन्मुखोऽप्यनताननः ।
कर्कशोऽपि मृदुस्पर्शः स्तनभारो मृगीदृशाम् ॥ इति ।

॥ इति विरोधचक्रम् ॥

अप्रस्तुतस्तोत्रमादर्शयन्नाह—

अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेपु या स्तुतिः ॥ ३३८ ॥