व्याजस्तुतिमाधकृत्याह—

यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ मता ।
दोषाभासा गुणा एव लभन्ते ह्यत्र सन्निधिम् ॥ ३४१ ॥

निन्दन्निव दोषमाचक्षाण इव स्तौति गुणं भाषते यदि चेत्, असावेवंलक्षणा व्याजस्तुतिर्मता इष्टा । कथमत्र गुणाः प्रतीयन्ते ? यतस्तुतिरियं गुणाविष्क्रियालक्षणा स्यादिति ब्रवीति । हिर्यस्मादर्थे । यदत्रोक्तिविशेषे दोषवदाभासन्ते प्रतिभान्ति तादृशपदोपादानादेर्दोषाभासा गुणा एव शौर्यादयो न दोषोऽपि कश्चित् । अत एव लेश86a स्तुतेरियं भिद्यते । तत्र हि दोषे गुणः कश्चिदेव प्रती[य]ते । यदुक्तम्—

दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता ।
98 इति । सन्निधिमवस्थानं लभन्ते प्रतीयन्त इति यावत् । अत्र व्याजस्तुतौ । ततः स्तुतिरेवेयम् सर्वथा [न] निन्दा काचिदपीति99 ॥

  1. २. २००
  2. अत्र श्लोकव्याख्यायां किमपि त्रटितमिति प्रतिभाति ।