188 कस्मादुत्कर्षादहंकारः अहमत्राधिक इत्यभिमानः तव परां कोटिमधिमात्रतामारोहति ? न युक्तमित्यमहङ्कर्तुं तवेति । निन्देव स्तुतिरियमखिलमहीतलाधि[पत्य]वर्णनलक्षणा अत्र लक्ष्यत इति ॥

अपरे अप्येवं श्लेषानुगता विकल्पा द्रष्टव्या इति निगमयन्नाह—

इति श्लेषानुविद्धानामन्येषां चोपलक्ष्यताम् ।
व्याजस्तुतिप्रकाराणामपर्यन्तः प्रविस्तरः ॥ ३४५ ॥

इति कथितेन पथा श्लेषेणोक्त[रू]पेणानुविद्धानां युक्तानां व्याजस्तुतेः प्रकाराणां विकल्पानामन्येषां च शेषाणामपि प्रविस्तरः प्रपञ्चोऽपर्यन्तः अपरिमितः प्रयोगेषु लक्ष्यतां द्रष्टव्यः । इह तु दिङ्मात्रं दर्शितम् । विकल्पाः केचिदपरे निदर्श्यन्ते—

बिभर्ति सकलामुर्वीमुरगः स्वपदच्युतः ।
भवानासाद्य साम्राज्यं राजन् किमभिमन्यसे ॥
मायावशेन लोकोऽयमावर्जितमतिस्त्वया ।
त्वद्यशोमुखरः कृष्णचरितः किं चिकित्ससे ॥
श्रुतिः कुवलयं धत्ते लीलया हरिणीदृशंम् ।
विक्रमेण भवानेतन्महता किं तव स्मयः ॥ इति ।

॥ इति व्याजस्तुतिः ॥

निदर्शनमुपदर्शयन्नाह—

अर्थान्तरप्रवृत्तेन किञ्चित्तत्सदृशं फलम् ।
सदसद्वा निदर्श्येत यदि तत् स्यान्निदर्शनम् ॥ ३४६ ॥

अर्थान्तरे निदर्श्यापेक्षया अन्यस्मिन् क्वचिदुचिते कार्ये प्रवृत्तेन तत्साधयता केनचिद्वस्तुना हेतुभूतेन कर्तृभूतेन तेनार्थान्तरेण सदृशं तुल्यं फलं किञ्चित् सदिष्टमसद् अनिष्टं वा निदर्श्येत प्रतिपाद्येत यदि, तदेवंलक्षणं निदर्शनं स्यादिति विधीयते । अर्थान्तरस्य वृत्तेनेत्यपि पाठः । तत्रार्थान्तरस्य कस्याचिद्वृत्तेन कर्मणा सदृशमिति व्याख्येयम् । शेषं समानम् ॥