192 इत्यपरमुदाहरणम्

इत्याशीश्चक्रम्

यत्र तेनैव तदुपमीयते स तद्धर्मः तस्यान्यत्र क्वचिदवृत्तेरनन्वयनाम अलङ्कारः । यदाहुः—

यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥
ताम्बूलरागवलयं स्फुरद्दशनदीधिति ।
इन्दीवराभनयनं तवेव वदनं तव ॥
100

यत्रोपमानेन सहाभेदः, भेदश्च स्तुतिपरः परिदीप्यते ससंदेहो नामासावलङ्कारः कल्पितः । यथोक्तम्—

उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससंदेहं वचः स्तुत्यै ससंदेहं विदुर्बुधाः ॥
किमयं शशी न स दिवापि राजते कुसुमायुधो न धनुरस्य कौसुमम् ।
इति विस्मयाद् विमृशतोऽपि मे मतिस्त्वयि वीक्षिते न लभतेऽर्थनिश्चयम् ॥
101

अपरश्चोपमारूपकं नामालङ्कारः । तदुक्तम्—

उपमानेन तद्भावमुपमेयस्य साधयन् ।
यां वदत्युपमामेतदुपमारूपकं यथा ॥
समग्रगगनायाममानदण्डो रथाङ्गिनः ।
पादो जयति सिद्धस्त्रीमुखेन्दुनखदर्पणः ॥ इति ।
102

  1. काव्यालङ्कारे ३. ४५-६
  2. काव्यालङ्कारे ३. ४३-४
  3. काव्यालङ्कारे ३. ३५-६