सोऽप्युत्प्रेक्षाविशेषत्वात् उत्प्रेक्षासंगृहीत इति दर्शयन्नाह—

उत्प्रेक्षाभेद एवासावुत्प्रेक्षावयवोऽपि यः ।

यः परैरुत्प्रेक्षावयवः पृथगुक्तः असौ सोऽपि चायमुत्प्रेक्षाया भेदो विशेषः कश्चित् । ततस्तत्संगृहीत एवेति नासंग्रहः कश्चित् ।

संसृष्टिं व्याचष्टे—

नानालङ्कारसंसृष्टिः संसृष्टिस्तु निगद्यते ॥ ३५७ ॥

नाना अनेकस्यालङ्कारस्य संसृष्टिः संसर्गः एकत्रोक्तौ सन्निधानं संसृष्टिस्तु निगद्यते विधीयते, यदुद्देशं संकीर्णमुक्तम् । तुशब्देनैतदाह—जात्यादीनामिव नास्याः पृथग्लक्षणम् । तेषामेव तु द्वयोर्बहूनां वा संसर्गलक्षणेयमिति ॥