195
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता ।
इत्यलङ्कारसंसृष्टेलेक्षणीया द्वयी गतिः ॥ ३५८ ॥

अङ्गमुपकारकम् । अङ्गि च उपकार्यम् । तयोर्भावोऽङ्गाङ्गिभावः साध्यसाधनत्वम् । तेनावस्थानं सन्निधानम् । सर्वेषां ये तत्रोपात्ताः । समो कक्षा बलं येषां तेषां भावः समकक्षता अङ्गाङ्गिभावमन्तरेण स्वातन्त्र्येणावस्थानं चेति—एवंरूपा द्वयी द्विविधा गतिव्यवस्था [लक्षणीया] द्रष्टव्या । कुत्रालङ्कारे ? संसृष्ट्यलङ्कारे विषय इति ॥

आक्षिपन्त्यरविन्दानि मुग्धे ! तव मुखश्रियम् ।
कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ ३५९ ॥

मुग्धे ! तव मुखस्य श्रियं शोभामरविन्दानि पद्मान्याक्षिपन्ति । त्वन्मुखसदृशानि इति यावत् । इयमुपमा । कथमेतदिति साध्यते—कोशः पद्मगर्भो धनसम्भारश्च, दण्डो नालं चतुरङ्गबलमिति च श्लिष्टम् । ताभ्यां समग्राणां पर्याप्तानामेषामरविन्दानां दुष्करम् असाध्यं कार्यं किमस्ति किञ्चित् ? सर्वमेव साध्यं यत्त्वन्मुखश्रियमप्याक्षिपन्ति इत्यङ्गाङ्गिभाव[ा]वस्थानवत्याः संसृष्टेरुदाहरणमेतत्, उपमायाः साध्यत्वेनाङ्गितयावस्थानात् ।