89a कोशेत्यादेश्चार्थान्तरन्यासस्य श्लेषानुविद्धस्य साधनत्वेनाङ्गतया स्थितेरित्यलङ्कारत्रयं संसृष्टमङ्गाङ्गिभूतं वर्णितम् । उपमा अर्थान्तरन्यास इत्यलङ्कारद्वयं वा । श्लेषस्त्वर्थान्तरन्यासात्मनैव अवस्थितः, न पृथक् संख्यायत इति ।

समकक्षा तु संसृष्टिः नोदाहृता । सा त्वेवं द्रष्टव्या—

स्तनोन्नता तनुः स्त्रीणां लोललोचनमाननम् ।
वचांसि च मधूनीव कथयन्ति न विक्रियाम् ॥ इति ।

इयं जात्युपमासंसृष्टिः समकक्षेति ॥108

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्निस्फलतां गता ॥

इति भासशूद्रकस्वीकृतं श्लोकं समकक्षाया उदाहरणत्वेन पठन्ति ।

  1. अत्र केचन मूल एव