50a लकवत् अर्थप्रकाशनकौशलस्वभावः तस्य वशात् सामर्थ्यात् । अत्र च सर्वत्र भाव एव सत्कवीनां प्रमाणम् । स हि सर्वमीदृशमुचितं विचिनोति, तद्विपर्ययं तु दुर्भगं न स्पृशति, यदाह—भावायत्तमिदं सर्वम् । इतीदमनन्तरोक्तं सर्वं वस्तु पूर्व[व]दुपकारादिलक्षणं विशेषचतुष्टयं भावे प्रबन्धव्यापिनि उचितानुचितविवेकवेधसि मनसि कवेरायत्तं प्रतिबद्धम्, तत्कार्यत्वादिति हेतोः । तत्सर्वमनन्तरोक्तं विदुर्विदन्ति तद्विदः कवयः ।

ननु जात्यादिकमपि भाविंकमेव, न हि तस्यापि विना भावेन अभिनिवृत्तिः । तत्किमिदमेव भाविकम् ? उच्यते- पद्येऽप्येवम् । तथापि यो भाव[ः] प्राबन्धिको विशिष्टः, तदायत्तमिह भाविकमभिप्रेतम् । अत एवोक्तम्—काव्येष्वासिद्धि यः स्थितः २.३६१ इतिं, जात्यादिकं तु प्रादेशिकभावाधीनम् । न हि प्रबन्धानुवर्तिना एकेन भावेन जात्यादिकं जन्यते प्रतिदेशमन्योन्यभावाभिनिवर्त्यत्वात् तस्य । तस्मात् तदन्वर्थैस्तैस्तैरभिधानैर्यथोक्तेन विधिना व्यवह्रियते न भाविकमिति ॥

॥ इति भाविकम् ॥

ये काव्यधर्माः शास्त्रान्तरे स[न्ध्य]ङ्गादि[शब्द]व्यवहृताः त इह तल्लक्षणयोगादलङ्कारेषु संगृहीता इतिं दर्शयन्नाह—

यच्च सन्ध्यङ्गवृत्त्यङ्गलक्षणाद्यागमान्तरे ।
व्यावर्णितमिदं चेष्टमलङ्कारतयैव नः ॥ ३६४ ॥

वक्तॄणां[?] वक्तव्यान्तरसमुच्चये सन्धयो—मुखं प्रतिमुखं गर्भोऽवमर्शो निर्वहणमिति पञ्चोक्ताः110 । तत्र उपक्षेपः परिकरः परिन्यासो विलोभनं युक्तिः प्राप्तिः समाधानं विधानं परिभावना उद्भेदः करणं भेद इति मुखाङ्गानि । विलासः परिसर्पो विधूतं तापनं नर्म नर्भद्युतिः प्रगमनं विरोधः पर्युपासनं पुष्पं वज्रभुपन्यासो

  1. तुल भारतीयनाट्यशास्त्रं १९. ३७-६७