200 इति । न च काव्यशरीरालङ्कारव्यतिरिक्तः कश्चित् काव्यधर्मः सम्भवति यस्ताभ्याम् असंगृहीतः स्यात् । तदिह यथालक्षणमाभ्यां संगृहीतमिति न किञ्चित् क्षीयते ॥

एवं यथाप्रतिज्ञातमलङ्कार[बाहुल्य]वर्जं पूर्वाचार्योपदर्शितपरिमितालङ्कारविकल्पबीजप्रतिसंस्करणं सम्पाद्य निगयमयन्नाह—

पन्थाः स एष विवृतः परिमाणवृत्त्या संक्षिप्य विस्तरमनन्तमलंक्रियाणाम् ।
वाचामतीत्य विषयं परिवर्तमानानभ्यास एव विवरीतुमलं विशेषान् ॥ ३६५ ॥

स इति प्रक्रान्तः एषोऽयं निगम्यमानः । स इति वा पूर्वं प्रतिज्ञातः एष प्रसाधितः । स एष पन्था लक्ष्यलक्षणविकल्परूपो मार्गः । कस्य ? अलंक्रियाणाम् । अलङ्काराणां जात्यादीनां सम्बन्धी विवृतः प्रतिसंस्कृतः । अस्माभिरिति गम्यते । गम्यमानार्थस्य च शब्दस्य प्रयोगं प्रति कामचार