एवं यथाप्रतिज्ञातमलङ्कार[बाहुल्य]वर्जं पूर्वाचार्योपदर्शितपरिमितालङ्कारविकल्पबीजप्रतिसंस्करणं सम्पाद्य निगयमयन्नाह—

पन्थाः स एष विवृतः परिमाणवृत्त्या संक्षिप्य विस्तरमनन्तमलंक्रियाणाम् ।
वाचामतीत्य विषयं परिवर्तमानानभ्यास एव विवरीतुमलं विशेषान् ॥ ३६५ ॥

स इति प्रक्रान्तः एषोऽयं निगम्यमानः । स इति वा पूर्वं प्रतिज्ञातः एष प्रसाधितः । स एष पन्था लक्ष्यलक्षणविकल्परूपो मार्गः । कस्य ? अलंक्रियाणाम् । अलङ्काराणां जात्यादीनां सम्बन्धी विवृतः प्रतिसंस्कृतः । अस्माभिरिति गम्यते । गम्यमानार्थस्य च शब्दस्य प्रयोगं प्रति कामचार 91a इत्युक्तम् । जात्यादयोऽलङ्काराः सामान्यविशेषलक्ष्यलक्षणप्रभेदतः प्रतिपादिता इति यावत् । कथं पुनरनन्ता अलङ्काराः प्रतिपादयितुं शक्या इत्याशङ्का । यदुक्तम्—

ते चाद्यापि विकल्प्यन्ते कस्तान् कार्त्स्न्येन वक्ष्यति ।
किं तु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्शितम् ।
तदेव प्रतिसंस्कर्तुमयमस्मत्परिश्रमः ॥
116 तदेवानुसरन्नाह—परिमाणेत्यादि । अलंक्रियाणामलङ्काराणां विस्तरं प्रपञ्चं लक्ष्यलक्षणविकल्पात्मकम्, अनन्तमपरिमितं संक्षिप्य संगृह्य
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते
117 इति सकलविकल्पव्यापकेन सामान्यलक्षणेन सास्नादिमत्त्वेनेवानन्तं गोप्रभेदं निःशेषं संगृह्य । परिमाणस्य परिमितेर्वृत्त्या सद्भावेन पञ्चत्रिंशदलङ्काररूपेण परिमाणीकृत्य परि[माप्य] इति यावत् । विवृत इति प्रकृतम् । न चैतद् व्याहतमाशङ्कनीयम् । यद्यपरिमितोऽलङ्कारविस्तरः कथमिह परिमित उक्त इति ? योऽसावपरिमितोऽलङ्कार-201 विस्तरोऽनुक्तो वर्तते स एवालङ्कारविस्तरः परिमित उक्तस्तज्जातीयत्वादित्यविरोधः । वस्तुतस्तु योऽनुक्तोऽलङ्कारविस्तरोऽपरिमितः सोऽन्य एव । यस्त्वयमुक्तः परिमितो विस्तरः सोऽप्यन्य एव । यदि पुनरेतावानलङ्कारविस्तरः, तदा अनन्ता अलङ्कारा इति विरुद्ध्येत, परिमितत्वादस्य विस्तरस्य । [अत्रो]क्तालङ्कारविस्तरस्याभ्यासानुसारेण तस्याप्य[नुक्ता]लङ्कारविस्तरस्यावगमसम्भवादनन्तोऽलङ्कारविस्तरोऽयं परिमाणवृत्त्या विवृत इत्युक्तम् । यदाह—वाचामित्यादि । ये विशेषालङ्कारा वाचां गिरां विषयं गोचरमतीत्यातिक्रम्य वर्तन्ते, तान् वाचां विषयमतीत्य परिवर्तमानान् वस्तुतो विद्यमानान् इह चानुक्तानिति यावत् । अभ्यासः यथोक्तालङ्कारानुसारी स्वयं काव्यप्रयोगविषयोऽभियोग एव यथावत् कवीनाम्, नान्यत् किञ्चित् विवरीतुं प्रयोगद्वारेण प्रकाशयितुमलं समर्थः । एतन्मार्गानुसारेण हि प्रयोगाभ्यासवतां कवीनां स्वयमेवोक्तिविशेषलक्षणास्तेऽलङ्काराः प्रयोगपथमुप[पद्य]न्ते । ततश्चायमेव मार्गस्तेषाम् अप्यवगमोपाय इत्यनेनैव ते संगृहीताः । अत्र एवोक्तम्- संक्षिप्य विस्तरमनन्तमलंक्रियाणां स एष पन्थाः प्रकाशित इति । तस्मादशेषालङ्कारविषयं परिज्ञानमिच्छ[द्भिर]य पन्था यथावदभ्यसनीय इति ॥

  1. २.१-२
  2. २.१