68 परिस्फुटं यथावदभिधातुमयं प्रकृतः अस्माकं परिश्रमो यत्नो वर्तते, नतु सर्वमलङ्कारमभिधातुम् । आनन्त्यादशक्तेश्च । किं तु परिमिताः केचिदलङ्काराः पूर्वाचार्योपदिष्टाः प्रतिसंस्क्रियन्ते । तथा च वक्ष्यति—

पन्थाः स एष विवृतः परिमाणवृत्या ।
संक्षिप्यविस्तरमनन्तमलंक्रियाणाम् ॥
71 इत्यादि

पूर्वं श्लेषादयः शब्दालङ्कारा मार्गनियताः कथिताः । इदानीं सर्वमार्गसाधारणा अलंकारा उच्यन्त इति दर्शयन्नाह—

काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलंक्रियाः ।
साधारणमलङ्कारजातमन्यन्निरूप्यते ॥ ३ ॥

काश्चिदलंक्रियाः केचिदलङ्काराः श्लेषप्रसादादयः न सर्वाः, प्रागपि प्रथमे परिच्छेदेऽपि उक्ताः श्लिष्टा[दयः] न केवलमिदानीमुच्यन्ते । प्राक् किमर्थमुक्ता इत्याह—मार्गविभागार्थमिति । मार्गयार्वैदर्भगौड़ीययोर्विभागो विवेकः उक्तलक्षणः अर्थः प्रयोजनं यस्मिन् वचन इति क्रियाविशेषणम् । श्लेषादिषु हि कथितेषु तत्स्वभावो वैदर्भमार्गः प्रतीयते । तद्विपर्ययस्वभावश्च गोड़ीय इति श्लेषाद्यलङ्कारवचनात् मार्गविभागो जायते । नान्ययेति श्लेषादिववनं मार्गविभागार्थं सम्पद्यते । किमिदानों वाच्यमित्याह—साधारणमित्यादि । वैदर्भादिषु सर्वमार्गेषु साधारणं सामान्यं न प्रागिवासाधारणम् । अलङ्कारजातम् अर्थालङ्कारवृन्दम् अन्यत् इदानीं निरूप्यते शिष्यत इति ॥

यथोद्देशं निर्दिदिक्षुस्तावदलङ्कारानुद्दिशति—

स्वभावाख्यानमुपमा रूपकं दीपकावृती ।
आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना ॥ ४ ॥
समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः ।
प्रेयोरसवदूर्जस्वि पर्यायोक्तं समाहितम् ॥ ५ ॥
उदात्तापह्नुतिश्लिष्टविशेषास्तुल्ययोगिता ।
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ ६ ॥
  1. २. २६७