69
सहोक्तिः परिवृत्त्याशीः संकीर्णमथ भाविकम् ।
इति वाचामलङ्काराः स्मर्यन्ते पूर्वसूरिभिः ॥ ७ ॥

दीपकमावृतिरावृत्तिश्च औणादिक इकारः । समासश्च समासोक्तिः । अतिशयश्च अतिशयोक्तिः उत्प्रेक्षा च । उदात्तम्, अपह्नुतिः, श्लिष्टम्, विशेषश्च । विरोधोऽप्रस्तुत स्तोत्रं च । व्याजस्तुतिः निदर्शनं च, परिवृत्तिराशीः संकीर्णं च । अथ भाविकं च इत्येते यथोक्ताः अलङ्काराः उक्तलक्षणाः स्मर्यन्ते आम्नायन्ते पूर्वसूरिभिः आद्यैराचार्यैः रामशर्मादिभिः काव्यालङ्कारकारैः । कस्येत्याह—वाचामिति । काव्यानां सम्बन्धिनः ॥

तत्र स्वभावोक्तिं तावन्निदर्शयन्नाह—

नानावस्थं पदार्थानां रूपं साक्षाद् विवृण्वती ।
स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ॥ ८ ॥

पदार्थानां वस्तूनां जातिक्रियागुणद्रव्याणां रूपं स्वभावम् । किंविशिष्टम् ? नानावस्थं नाना विचित्रा न त्वेकैव काचित्, अवस्था दशा यस्य तादृशमनेकप्रकारं साक्षात् अञ्जसा अभिधानव्यापारेण न तु सामर्थ्यात् । विवृण्वती प्रकाशयन्ती सती या प्रवर्तते सा तादृश्यलंकृ