42b तिः । आद्या प्रथमा अलङ्कारेष्विह स्वभावोक्तिर्नाम वेदितव्या, जातिर्नाम वा । अनेन संज्ञाद्वयेन अयमलङ्कारो व्यवह्नियते । स्वभावं पदार्थानां विचित्रं वक्तीति स्वभावोक्तिः । जातेः पदार्थस्वरूपस्य तथा तथा प्रतिपादकत्वेन तादर्थ्याज्जातिः । यथेत्युदाहरति । यथेदं तथान्यदपि तादृशं सर्वमेव द्रष्टव्यम् । न त्विदमेवेत्यर्थः । एवमुत्तरत्राप्यनुगन्तव्यम् ॥

तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः ।
त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ ९ ॥

एते प्रत्यक्षवर्तिनः शुकाः तुण्डैः चञ्चुभिः आताम्रैः लोहितैः, कुटिलैः वक्रैश्च, पक्षैश्च हरितवर्णैः, कोमलैः मृदुभिः कण्ठैश्च, त्रिभिर्वर्णैः सितासितलोहितैः राजिभिः लक्षिताः । मञ्जर्मधुरा गीः शब्दो येषां ते मञ्जुगिरः । इयं शुकजातेः पदार्थस्य विचित्रं स्वरूपं वक्तीति जातिस्वभावोक्तिरीदृशी द्रष्टव्या ॥