70

विशालाः श्रोणिषु क्षामा मध्ये दीर्घा विलोचने ।
पयोधरैरसंक्षिप्तैस्तास्तु रम्या वरस्त्रियः ॥
इत्यपरमुदाहणम् ॥

[क्रिं]यास्वभावोक्तिमुदाहरन्नाह—

कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिक्षिप्य रिरंसुश्चुम्बति प्रियाम् ॥ १० ॥

पारावतः प्रियां पारावतीं चुम्बति रिरंसू रन्तुकामः परिक्षिप्य परिभ्रम्य कलमव्यक्तमधुरं क्वणितं शब्दो गर्भोऽन्तर्वर्ती यस्मिन् तेन कण्ठेन लक्षितः । आधूणिते भ्रमिते ईक्षणे नेत्रे यस्य स तथा । इह क्वणनाघूर्णनादेः क्रियापदार्थस्य स्वभावः प्रकाश्यत इति क्रियास्वभावोक्तिरेवंविधा विज्ञेयेति ।

वेपते श्वसिति का[म्यत्यलं] पश्यति रोदिति ।
बिभेति हरति स्वाङ्गं बाला नवसमागमे ॥
इत्यपरमुदाहरणम् ॥

गुणस्वभावोक्तिं निदर्शयन्नाह—

बध्नन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम् ।
नेत्रे चामीलयन्नेव प्रियास्पर्शः प्रवर्तते ॥ ११ ॥

प्रियायाः प्रणयिन्याः स्पर्शो गुणः पृथिव्यादिभूताश्रयत्वात् । स प्रवर्तते । कथम् ? अङ्गेषु प्रियस्य गात्रेषु रोमाञ्चं रोमहर्षं बध्नन् उत्पादयन् मनस्यन्तरात्मनि निर्वृतिं कुर्वन्नानन्दममन्दं सन्दधानः । नेत्रे च प्रियतमस्य दृशौ हर्षभरसञ्चरे आमीलयन् मुकुलयन्नेव । एष इत्यपि पाठः । प्रवर्ततामिति प्रकृतम् । अत्र स्पर्शाख्यस्य गुणपदार्थस्य स्वरूपं रोमाञ्चादि विचित्रं