द्रव्यस्वभावोक्तिमुदाहरति—

कण्ठे कालः करस्थेन कपालेनेन्दुशेखरः ।
जटाभिः स्निग्धताम्राभिराविरासीद् वृषध्वजः ॥ १२ ॥

वृषध्वजः शङ्करः आविरासीत् प्रकाशीबभूव । कण्ठे कालः कालकूटलक्षणो यस्य कण्ठेकालो वा सप्तम्या अलुक् । इन्दुरर्धचन्द्रः शेखर उत्तंसो यस्य । करस्थेन हस्तवर्तिना कपालेन भिक्षापात्रेण स्निग्धाभिरपरुषाभिस्ताम्राभिः पाटलाभिर्जटाभिश्च लक्षित इति योज्यम् । शङ्कराख्यस्य द्रव्यस्य नानाप्रकारं स्वरूपमिंहोपवर्णितमिति द्रव्यपदार्थस्वभावोक्तिरित्थम्भूता बोद्धव्येति ।

स्वेदबिन्दुमदुद्भिन्नपुलकं लोलमाकुलम् ।
तद्दर्शनादभूदङ्गमङ्गं तस्या नतभ्रुवः ॥
इत्यपरमुदाहरणम् ॥