71

द्रव्यस्वभावोक्तिमुदाहरति—

कण्ठे कालः करस्थेन कपालेनेन्दुशेखरः ।
जटाभिः स्निग्धताम्राभिराविरासीद् वृषध्वजः ॥ १२ ॥

वृषध्वजः शङ्करः आविरासीत् प्रकाशीबभूव । कण्ठे कालः कालकूटलक्षणो यस्य कण्ठेकालो वा सप्तम्या अलुक् । इन्दुरर्धचन्द्रः शेखर उत्तंसो यस्य । करस्थेन हस्तवर्तिना कपालेन भिक्षापात्रेण स्निग्धाभिरपरुषाभिस्ताम्राभिः पाटलाभिर्जटाभिश्च लक्षित इति योज्यम् । शङ्कराख्यस्य द्रव्यस्य नानाप्रकारं स्वरूपमिंहोपवर्णितमिति द्रव्यपदार्थस्वभावोक्तिरित्थम्भूता बोद्धव्येति ।

स्वेदबिन्दुमदुद्भिन्नपुलकं लोलमाकुलम् ।
तद्दर्शनादभूदङ्गमङ्गं तस्या नतभ्रुवः ॥
इत्यपरमुदाहरणम् ॥

एवं स्वभावोक्तिं प्रतिपाद्य निगमयन्नाह—

जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम् ।
शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ॥ १३ ॥

जातिः क्रिया गुणो द्रव्यं च तेषां स्वभावो लक्षणं नानावस्थस्तस्याख्यानमाख्यायतेऽनेनेतीदृशमेवंजातीयं द्रष्टव्यमिति शेषः । क्वास्य विनियोग इत्याह—शास्त्रेष्वित्यादि । शास्त्रेषु आन्वीक्षिंक्यादिषु विद्यास्थानेषु । अस्यैव स्वभावाख्यानस्यालङ्कारस्य नान्यस्योपमादेः साम्राज्यं प्राधान्यम्, तस्यैव तत्र प्रायः प्रयोगात् । काव्येष्वपि सर्गबन्धादिष्वेतत् स्वभावाख्यानमीप्सितमिष्टम्, तत्रापि यथावसरं प्रयुक्तस्य शोभाकरत्वात् । अपिशब्दान्न केवलं शास्त्रेष्वित्याचष्टे ॥

स्वभावोक्त्यनन्तरोद्दिष्टत्वात्तन्निर्देशानन्तरमुपमां विवृणवन्नाह—

यथाकथञ्चित् सादृश्यं यत्रोद्भूतं प्रतीयते ।
उपमा नाम सा तस्याः प्रपञ्चोऽयं प्रदर्श्यते ॥ १४ ॥

एवमुत्तरत्राप्यनुसर्तव्यम् । यत्र विषये सादृश्यं पदार्थयोः कयोश्चित्साम्यं यथाकथञ्चित् येन केनचित् प्रकारेण, गुणादिना सर्वथा साम्यस्य दुर्लभत्वात् । तत्त्वे[चैक्य]-