48b च सर्वेण—

हीनताऽसम्भवो लिङ्गवचोभेदौ विपर्ययः ।
उपमानाधिकत्वं च तेनासदृशतापि च ॥
त एत उपमादोषाः सप्त मेधाविनोदिताः ।
77 इति मतान्तरमनैकान्तीकृतम् ।

यद्यप्युपमानोपमेयभूतं वस्तु चन्द्रमुखादिशब्दवाच्यम्, तथापि इवादिशब्दव्यतिरेकेण सादृश्यमभिव्यक्ति न यातीति तदभिव्यञ्जकान् शब्दान् व्यवहारं व्युत्पत्तये दर्शयन्नाह—

इववद्वायथाशब्दाः समाननिभसन्निभाः ।
तुल्यसंकाशनोकाशप्रकाशप्रतिरूपकाः ॥ ५७ ॥
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः ।
सदृक्सदृशसंवादिसजातीयानुवादिनः ॥ ५८ ॥
प्रतिबिम्बप्रतिच्छन्दसरूपसमसम्मिताः ।
सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ ५९ ॥
कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि ।
सवर्णतुलितौ शब्दौ ये च तुल्यार्थवाचिनः ॥ ६० ॥
समासश्च बहुव्रीहिः शशाङ्कवदनादिषु ।
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ ६१ ॥
आक्रोशत्यवजानाति कदर्थयति निन्दति ।
विडम्बयति संरुन्ध्दे हसतीष्यत्यसूयति ॥ ६२
  1. काव्यालङ्कारे २. ३९–४०