73 उन्निद्रं विकसितमरविन्दं पद्मं तवाननं मुखमिवाभूत् । ईदृशी या सादृश्योक्तिः सा विपर्यासोपमेष्यते कविभिः । पद्ममुपमानमुपमेयं मुखमिति या प्रसिद्धिः निरुढिस्तस्याः विपर्यासाद् वैपरीत्यात् कारणात् । पद्मस्योपमेयीकरणात् वक्त्रस्योपमानीकृतेः ततो विपर्यासोपमैवेदृशी द्रष्टव्या । कान्त्यादिविशेषश्चाननम्यात्र कश्चिद् विवक्षित इति गम्यते । अन्यथा किं विपर्यासेनेति ॥

तवाननमिवाम्भोजमम्भोजमिव ते मुखम् ।
इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी ॥ १८ ॥

तवाननमिवाम्भोजं पद्मम् । अम्भोजमिव ते तव मुखमिति । एवं जातीया अन्योन्योपमेष्यते । अन्योन्यस्य परस्परस्य मुखस्याम्भोजस्य चान्योन्येन तेनैव द्वयेन उपमानात् साम्यकथनात् । सा चेयमन्योन्यस्य मुखस्याम्भोजस्य चोत्कर्षं विशेषं कान्त्यादिलक्षणं शंसति प्रकाशयति । अन्योन्येनैवेतद् द्वयं समानं