44a नान्येन केनचिदिति द्वयोरतिशयः कश्चिदवसीयत इति । अनेन

उपमानोपमेयत्वं यत्र पर्यायतो भवेत् ।
उपमेयोपमां नाम ब्रुवते तां यथोदिताम् ॥
73 इति परेष्टोपमेयोपमा पृथगुपमायामन्तर्भाविता ॥

त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् ।
इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ॥ १९ ॥

तव मुखं कमलेनैव तुल्यम् । नान्येन केनचित् कमलव्यतिरिक्तेन वस्तुनेति । एवंविधा या सादृश्योक्तिः सेयं नियमोपमा कथ्यते । नियमस्य साक्षादुपादानात् । यदाह—अन्यसाम्यव्यावृत्तेरिति । कमलादन्येन केनचिद्वस्तुना साम्यस्य सादृश्यस्य व्यावृत्तेर्व्यवच्छेदात् कारणात् । तेनैव च नियमेन व्यपदिश्यते, नान्यथेति ॥

पद्मं तावत् तवान्वेति मुखमन्यच्च तादृशम् ।
अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ॥ २० ॥

  1. काव्यालङ्कारे ३.३७