रूपकं निरूपयन्नाह—

उपमैव तिरोभूतभेदा रूपकमुच्यते ।
यथा बाहुलता पाणिपद्मं चरणपल्लवम् ॥ ६६ ॥

उपमैव यथोक्तलक्षणा रूपकमिष्यते तज्ज्ञैः । न कश्चित् तर्हि विशेषः तयोर्नाममात्रं भिद्यत इत्याह—तिरोभूतभेदेति । तिरोभूतोऽप्रकटो भेदो नानात्वम् उपमानोप-87 मेययोरभेदारोपणात् यस्यां तथाभूता सती रूपकं नाम अलङ्कारः कल्प्यत इति भेदोद्भवाभिभवप्रभावितं नानात्वम् अनयोर्व्यञ्जनेन शब्दाभेदमात्रं रूपयति । उपमा[नोपमेययो]रभेदमारोपयति इति रूपकम् । यथेत्युदाहरति—बाहुर्लतातुल्यो लतारूपेण निरूप्यते इत्यभेदारोपः । तिरोहितो भेदः । नतूद्भेदः । बाहुर्लते एवेति 49a  । पाणिरेव पद्मं चरण एव पल्लवमित्यभेदाध्यासः पूर्ववदिति ॥