86
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ।
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥ ६३ ॥
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते ।
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ॥ ६४ ॥
तस्य चानुकरोतीति शब्दाः सादृश्यसूचिनः ।
उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ ६५ ॥

इवश्च वच्च यथा च ते शब्दाश्चेति विग्रहः । समाननिभसन्निभाः पूर्ववच्चार्थः । शब्दा इति वक्ष्यमाणमपेक्ष्य पुंस्त्वमिति ॥ तुल्यादिष्वप्यनन्तरो[क्तेषु तथैव] वाच्यमिति । सदृशादिकमपि पूर्ववत् सुगममिति ॥ सलक्षणादीनामपि सैव रीतिः ॥ आदिशब्देन बहुजादिपरिग्रहः ।

अयं कुणालो बहुसागरः प्रियः [?]
इत्यादि च लक्ष्यमालक्ष्यमिति ॥ सवर्णेत्यादि । ये चान्यूनं सममर्थं वदन्ति सधर्मसाधारणसच्छायादयोऽनुक्ताः तेऽपि शब्दाः सादृश्यसूचिन इत्यवेक्षणीयम् । शशाङ्क इव वदनं यस्याः सा तथा । आदि शब्देनोत्पलाक्ष्यादिपरिग्रहः । तेषु प्रयोगेषु समासश्च बहुव्रीहिरन्यपदार्थः । सादृश्यसूचक इत्यपेक्षमिति ॥ स्पर्द्धत इत्यादि सुगममिति । एते सर्वे शब्दा यथोक्ताः सादृश्यम् उपमानोपमेययोः साम्यं सूचयन्ति व्यञ्जयन्तीति सादृश्यसूचिनः प्रतिपत्तव्या इति उपमाप्रपञ्चः ॥

॥ उपमाचक्रम् ॥

रूपकं निरूपयन्नाह—

उपमैव तिरोभूतभेदा रूपकमुच्यते ।
यथा बाहुलता पाणिपद्मं चरणपल्लवम् ॥ ६६ ॥

उपमैव यथोक्तलक्षणा रूपकमिष्यते तज्ज्ञैः । न कश्चित् तर्हि विशेषः तयोर्नाममात्रं भिद्यत इत्याह—तिरोभूतभेदेति । तिरोभूतोऽप्रकटो भेदो नानात्वम् उपमानोप-