किं नामेदं व्यवह्रियत इत्याह—

इत्येतदसमस्ताख्यं समस्तं पूवरूपकम् ।
स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥ ६८ ॥

इत्येतदीदृशम् अस[म]स्तमित्याख्या संज्ञा यस्येत्यसमस्ताख्यं व्यस्तं नाम रूपकं प्रतिपत्तव्यम्, उपमानोपमेयरोरकृतसमासत्वात् । यत्र समासः । तत् किमाख्यायते ? पूर्वरूपकं बाहू लतेत्यादि । कृतसमासं प्रथममुदाहरणम् । समस्तं तादृशं वेदितव्यम्, समासयोगात् । मुखमिवेन्दुर्मुखेन्दुरिति समस्तम् । स्मितं लीलाहसितं ज्योत्स्ना चन्द्रिकेति व्यस्तम् । अतश्च समस्तं तद् व्यस्तं चेति समस्तव्यस्तं नामेदृशं रूपकमवगन्तव्यमिति ॥