88
ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम् ।
ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम् ॥ ६९ ॥

राजन्, भवतश्चरण एव पङ्कजं भूपालैः ध्रियते धार्यते मूर्ध्नि शिरसि । किम्भूतम् ? ताम्राङ्गुलयो दलश्रेणिः पत्रपंक्तिर्यस्य । नखानां दीधितयः किरणाः केसराणि यत्र तादृशं ध्रियते इति प्रकृतम् ॥

कतमदेतद्रूपकमित्याह—

अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् ।
तद्योग्यस्थानविन्यासादेतत् सकलरूपकम् ॥ ७० ॥

एतदनन्तरोक्तमीदृशं सकलरूपकम् आख्यायते । सकलस्याङ्गिनः पादस्याङ्गस्य चाङ्गुल्यादीनां रूपणात् । अङ्गुलिरादिर्यस्या नखदीधितेस्तत्र दलमादिर्यस्य केसरस्य तस्य भावः तत्त्वं तदारोप्य इत्यङ्गरूप