कि[मि]यन्त एव रूप[क]भेदाः ? नेत्यपर्यवसायेन उपमासामान्येन निगमयन्नाह—

न पर्यन्तो विकल्पानां रूपकोपमयोरतः ।
दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ ९६ ॥

रूपकस्योपमायाश्च विकल्पाः प्रभेदाः सामान्यलक्षणव्याप्ताः । तेषां पर्यन्तोऽवसानं नास्ति यतस्ततः कारणात्, दिङ्मात्रं सर्वविकल्पव्यापकसामान्यलक्षणानुगतविशेषरूपं कियदपि लक्ष्यं शेषविकल्पानुगमद्वारं दर्शितम् उक्तं धीरैः कविभिरिति परमुखेनाचष्टे । शेषमतिदिशति—अनुक्तमिहानुपात्तं विकल्पजातं सामान्यविशेष95 लक्षणात्मकं तादृशमुक्तविकल्पानुसारेणानुमीयताम् ऊह्यताम् । तस्याप्येवंप्रकारत्वात् शक्यमनया दिशा तदप्यवसातुमभियुक्तैरिति ॥

तद्यथा—

तव तन्वङ्गि ! वदनमिन्दुना तुल्यमित्ययम् ।
अभिधत्तां जनो नाहमुत्सहे वक्तुमीदृशम् ॥
अनुत्साहोपमा ।
गुञ्जद्भृङ्गमिवाम्भोजं सशीत्कारं मुखं तव ।
इति वक्तुमनुत्साहो न युक्तः कलभाषिणि ॥
अयुक्तोपमा ।
पयोधरयुगे तन्वि ! तव चक्राह्वयद्वयम् ।
अविभक्तमिवाभाति भासुरं कुङ्कुमश्रिया ॥
विशेषोपमा ।
एवमन्येप्युपमाविकल्पा अभ्यूह्याः ।

मुखेन्दावेव ते तन्वि ! रागपक्ष्मविचक्षणम् ।
कामः केवलमाधत्ते धनुः कुसुमसायकम् ॥
नियमरूपकम् ।
अङ्गनासरसीं रम्यामुन्निद्रमुखपङ्कजाम् ।
शमनासाद्य [?] सन्तापं कथमेष गमिष्यति ॥
आशंसारूपकम् ।
अनिच्छयैव ते तन्व्यास्तस्या वदनपङ्कजम् ।
विरहय्य विमूढ़ाद्य मनः किमनुतप्यसे ॥
अनुशयरूपकम् ।
एवमपरेऽपि रूपकविकल्पा ऊहितव्याः । इति रूपकप्रपञ्चः ॥