दीपकं परिदीपयन्नाह—

जातिक्रियागुणद्रव्यवाचिनैकत्रवर्तिना ।
सर्ववाक्योपकारश्चेत् तदाहुर्दीपकं यथा ॥ ९७ ॥

52a जातिवाचिना क्रियाभिधायिना गुणप्रकाशिना द्रव्याभिलापिना वा शब्देन वाक्यावयवभूतेन केनचित् एकत्र वाक्यस्यादौ मध्येऽन्ते वा वर्तमाने[न] कर्तृभूतेन सर्वस्याभिमतस्य कस्यचिद् वाक्यस्य क्रियाकारकसम्बन्धाभिधायिनः96 पदसन्तानस्यार्थद्वारेण सा[धन]संभवादुपकारः साध्यसाधनभावेन तदपेक्षालक्षणश्चेत् यदि भवति तदेवंरूपं दीपकमाहुः उपदिशन्ति तद्विदः । सर्व वाक्यं दीपयत्युपकरोतीति दीपकम् । यथेत्युदाहरति ॥