95 लक्षणात्मकं तादृशमुक्तविकल्पानुसारेणानुमीयताम् ऊह्यताम् । तस्याप्येवंप्रकारत्वात् शक्यमनया दिशा तदप्यवसातुमभियुक्तैरिति ॥

तद्यथा—

तव तन्वङ्गि ! वदनमिन्दुना तुल्यमित्ययम् ।
अभिधत्तां जनो नाहमुत्सहे वक्तुमीदृशम् ॥
अनुत्साहोपमा ।
गुञ्जद्भृङ्गमिवाम्भोजं सशीत्कारं मुखं तव ।
इति वक्तुमनुत्साहो न युक्तः कलभाषिणि ॥
अयुक्तोपमा ।
पयोधरयुगे तन्वि ! तव चक्राह्वयद्वयम् ।
अविभक्तमिवाभाति भासुरं कुङ्कुमश्रिया ॥
विशेषोपमा ।
एवमन्येप्युपमाविकल्पा अभ्यूह्याः ।

मुखेन्दावेव ते तन्वि ! रागपक्ष्मविचक्षणम् ।
कामः केवलमाधत्ते धनुः कुसुमसायकम् ॥
नियमरूपकम् ।
अङ्गनासरसीं रम्यामुन्निद्रमुखपङ्कजाम् ।
शमनासाद्य [?] सन्तापं कथमेष गमिष्यति ॥
आशंसारूपकम् ।
अनिच्छयैव ते तन्व्यास्तस्या वदनपङ्कजम् ।
विरहय्य विमूढ़ाद्य मनः किमनुतप्यसे ॥
अनुशयरूपकम् ।
एवमपरेऽपि रूपकविकल्पा ऊहितव्याः । इति रूपकप्रपञ्चः ॥

॥ इति रूपकचक्रम् ॥

दीपकं परिदीपयन्नाह—

जातिक्रियागुणद्रव्यवाचिनैकत्रवर्तिना ।
सर्ववाक्योपकारश्चेत् तदाहुर्दीपकं यथा ॥ ९७ ॥