102 आवृत्तिमधिकृत्याह—

अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च ।
दीपकस्थान एवेष्टमलङ्कारत्रयं यथा ॥ ११६ ॥

अर्थस्य अभिधेयस्य आवृत्तिः पुनः पुनरुद्भावनम् । पदस्य शब्दस्य आवृतिः भूयः समुच्चारणम् । उभयस्यार्थस्य पदस्य चावृत्तिरप्यावृत्तिश्चेति । एवंलक्षणम् अलङ्कारत्रयम् आवृत्तिविशेषात्मकमिष्टं दीपकस्य स्थाने विषय एव नान्यत्र । दीपकेनापि तादृशार्थप्रतीतिसम्भवात् नार्थतः तयोः भेद इति दीपकस्थान एवेष्टमित्युक्तम् । अन्ये त्वेकत्र दीपकस्थान इति विशेषेण व्याचक्षते तदसारम् । एवं हि अर्थावृत्तिरेव दीपकस्थाने स्यात्, न शेषमावृत्तिद्वयम् । आवृत्तित्रयमपि च दीपकस्थान इत्युक्तं शास्त्रकृता दीपकस्थान एवेष्टमलङ्कारत्रयमिति साक्षादमिधानात् । ततः शास्त्रविरुद्धमेव व्याख्यानम् । तस्माद्दीपकावृत्त्योः समानो विषयः, उभयथापि तदर्थावगमसम्भवात् । प्रयोगतस्त्वनयोर्भेदः । न चैवमवगन्तव्यम्- यदि सोऽर्थो दीपकेनापि गम्यते किमनयेति दीपकसमानत्वादस्य पर्यनुयोगस्य । दीपकवच्चास्यापि शिष्टैरिष्टत्वात् कथमियमतिरिच्यते ? तेषां सर्वथेह प्रमाणत्वात् । कथं न दिष्टातिक्रमः ? तस्मात् अर्थाभेदेऽपि दीपकवदियमप्यनुगम्यते, द्वयोरप्यलङ्कारतयेष्टत्वात् । अत एवोक्तम्— दीपकस्थान एवेष्टमिति । शिष्टैरितिगम्यते । तस्मादभिन्नस्थानत्वेऽपि प्रयोगभेदा54b दुभयमपीष्टं शिष्टैरित्यलमतिविमर्देन इति ॥