103
उत्कण्ठयति मेघानां माला वर्गं कलापिनाम् ।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥ ११८ ॥

कलापिनां वर्गमुत्कण्ठयति उद्ग्रीवयति मेघानां माला यूनां च मानसं मकरध्वजः उत्कण्ठयति पर्युत्सुकयति अद्य प्रावृषि । पदावृत्तेरिदमुदाहरणम् । पदस्यैवोत्कण्ठयतीत्यस्यावृत्तेः । अर्थस्य तु भेदादयमप्यर्थो दीपकेन परिदीप्यते । तद्यथा—

उत्कण्ठयति मेघानां माला वर्गं कलापिनाम् ।
यूनां च रागसर्वस्वं मानसं मकरध्वजः ॥
इति ॥

जित्वा विश्वं भवानत्र विहरत्यवरोधनैः ।
विहरत्यप्सरोभिस्ते रिपुवर्गो दिवं गतः ॥ ११९ ॥

विश्वं जगत् जित्वा अत्र महीमण्डले अद्य च अधुना अवरोधनैः अन्तःपुरसुन्दरीभिः सह भवान् विहरति रमते । तव रिपुवर्गो दिवं स्वर्गं तवासिधारापथेन गतः सह अप्सरोभिः दिव्याङ्गनाभिः सह विहरति इत्युभयावृत्तिर्निदर्शिता, विहरति इत्यर्थस्य पदस्यावृत्तेरिति ॥

इदमपि दीपकस्य स्थानम् । तद्यथा—

जित्वा विश्वं भवानत्र विहरत्यवरोधनैः ।
रम्याभिरप्सरोभिस्ते रिपुवर्गो दिवं गतः ॥
इति ।

अत एव दीपकस्थान एवेष्टमलङ्कारत्रयमिति सामान्येनोक्तम् ॥

॥ इति आवृत्तिचक्रम् ॥

आक्षेपमुपक्षिपन्नाह—

प्रतिषेधोक्तिराक्षेपस्त्रैकाल्यापेक्षया त्रिधा ।
अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता ॥ १२० ॥

प्रतिषेधस्योक्तिर्वचनमित्यनूद्य आक्षेप इति विधीयते । स च त्रिधा त्रिभिः प्रकारैस्तावद् भिद्यते । कथम् । त्रयोऽतीतानागतवर्तमानाः कालास्त्रैकाल्यम् । तस्या पेक्षया