105 अपर्याप्तम् असमर्थम् मन्यसे ? किमिति क्षेपे प्रश्ने वा । नैवं मन्तव्यं पर्याप्तमिदमस्मिन् कर्मणीति ॥

तद् व्याचष्टे—

स वर्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पलम् ।
कर्णे काचित् प्रियेणैवं चाटुकारेण रुध्यते ॥ १२४ ॥

सोऽयमीदृशो वर्त[मा]नस्य करणस्य आक्षेपः । वर्तमानकालविषयो निषेधः । कथम् ? काचित् प्रिया कर्णे स्वस्मिन् असितोत्पलमिन्दीवरं कुर्वती कुर्वाणेव, न कृतवती करिष्यन्ती वा । रुध्यते आक्षिप्यते प्रियेण चाटुकारेण प्रियाचरणचतुरेण । एवमनन्तरोक्तेन प्रकारेण यतस्तस्माद्वर्तमानाक्षेपोऽयमिति निगमनीयम् इति ॥

सत्यं ब्रवीमि न त्वं मां द्रष्टं वल्लभ ! लप्स्यसे ।
अन्यचुम्बनसंक्रान्तलाक्षारक्तेन चक्षुषा ॥ १२५ ॥