117

इयमाद्या विधेः सृष्टिर्मर्त्यस्त्रीषु विलोक्यते ।
रूपमीदृक् कुतस्तासामियं काचित्सुराङ्गना ॥
निश्चयाक्षेपः ॥
न प्रसीदसि तन्वङ्गि ! प्राणैरपि ममार्पितैः ।
किमतः परमादेयं यदेवमपि निष्ठुरा ॥
प्रसादाक्षेपः ॥
एवमपरेऽप्याक्षेपविकल्पाः समुन्नेयाः ॥

॥ इत्याक्षेपचक्रम् ॥

अर्थान्तरन्यासमुपन्यस्यति—

ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन ।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ १६७ ॥

विवक्षितं किञ्चिद्वस्तु अर्थरूपं प्रस्तुत्याभिधाय तस्य प्रस्तुतस्य वस्तुनः साधने समर्थस्य योग्यस्यान्यस्य वस्तुनः कस्यचित् न्यासः प्रयोगो यः, स एवंलक्षणोऽर्थान्तरन्यासो नामालङ्कारो ज्ञेयः प्रतिपत्तव्यः । प्रतिवस्तूपमा[या] अस्य च को भेदः उभयत्राप्यर्थान्तरोपन्यासात् ? महान् भेदः । तत्र हि सदृशस्यार्थान्तरस्योपन्यासः केवल