61a आदिग्रहणसंगृहीताः केचिद्भेदा उदाह्रियन्ते ॥

सुखाय सुधियां लक्ष्मीर्न कदाचिदशर्मणे ।
किमुत श्रीः सुखप्राप्त्ये जायते न विपश्चिताम् ॥
अविरुद्धोऽयम् ॥
सुखाय विपदः सन्तु सम्पदोऽपि सुखाय ते ।
दुर्नयप्रस्थितानां हि सम्पदोऽपि विपत्तयः ॥
अविरुद्धविरुद्धोऽयम् ॥
अपकारोऽप्युपात्तेषु हिताय किमु सत्कृतिः ।
कृपाध्यासितचित्तानामीदृशी महतां स्थितिः ॥
एवमन्येप्यादिशब्दसंगृहीताः प्रभेदा ऊहितव्या इति ॥

॥ अर्थान्तरन्यासचक्रम् ॥

व्यतिरेकमाविष्कुर्वन्नाह—

शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोर्द्वयोः ।
तत्र यद् भेदकथनं व्यतिरेकः स कथ्यते ॥ १७८ ॥

विवक्षितयोः कयोश्चिद् द्वयोर्वस्तुनोरर्थयोः सादृश्ये कथञ्चित् तुल्यत्वे शब्देन वाचकेन साक्षादुपात्ते प्रतिपादिते सति शब्दाद्वा उपात्ते गृहीते प्रतिपत्तिप्रतीते वा । अशब्दोपात्तेऽपि शब्दोपात्तार्थबलात् प्रकरणादेर्वा ज्ञाने न केवलं शब्दोपात्ते । द्वयी खलु प्रतीतिः सम्भवति । शाब्दी नैयायिकी च, अन्यथा प्रतीत्यसंभवात् । यदुक्तम्—

नहि प्रतीतिः सुलभा शब्दन्यायविलङ्घिनीइति ।
80

तत्र तयोर्वस्तुनोर्विषये भेदस्य कस्यचिद्विशेषणस्य तत्सम्बन्धिनः कथनमभिधानं यदीत्यनूद्य स व्यतिरेकः कथ्यत इति विधीयते ॥

  1. १. ७५