128

विभावनामुद्भावयन्नाह—

प्रसिद्वहेतुव्यावृत्या यत्किञ्चित् कारणान्तरम् ।
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥ १९७ ॥

यथोक्तौ प्रसिद्धस्य लोकप्रतीतस्य साक्षाद्दर्शनात् किञ्चित्कार्यं प्रति हेतोः कारणस्य कस्यचिद् व्यावृत्या निरासेनापक्षेपात् । कथं तर्हि कार्यसम्भव इत्याहयत्किञ्चिदनुरूपंतत्र कारणान्तरं प्रसिद्धात् कारणादन्यन्निमित्तं विभाव्यम् अवगम्यते । यत्र कारणान्तरमपि नापेक्ष्यते तत्र का गतिरित्याह- स्वाभाविकत्वं वेति । स्वाभाविकं नैसर्गिकं वस्तुधर्मसिद्धं तस्य भावः तत्त्वम् । स्वाभाविकं वा । न केवलं कारणान्तरं कार्यस्योत्प्रेक्ष्यते । विभाव्यं [चिन्तनीयं] सा तादृशी तल्लक्षणा विभावना ज्ञेया । विभाव्यते प्रकाश्यते कारणान्तरं स्वाभाविकत्वं वा अनया अस्यामिति वा विभावना तथाविधोक्तिरिति ।

तमुदारहरन्नाह—

अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् ।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोहरम् ॥ १९८ ॥

पीताः पीतवन्तः । बहुलवचनात् कर्तरि क्तः । आरम्भे वा । अथवा

वनाय पीतप्रतिबद्धवत्साम्
81 इतिवत् । न तथा अपीता अकृतमधुपानाः सन्तः क्षीबाः मत्ताः कादम्बाः कलहंसाः असंमृष्टम् अपरिशोधितम् सत् अमलम् अनाविलम् अम्बरम् आकाशम्, कतकादिभिः अप्रसादितम् अनपनीतकालुष्यं सत् सूक्ष्मम् अच्छम अम्बु च यत्र जगति तन्मनोहरं सुभगमासीत् अभूदिति ।

अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता ।
अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि ॥ १९९ ॥

  1. रघुवंशे २. १