64a सुन्दरि ! तव दृष्टिः अनञ्जिता अञ्जनशलाकया यथास्थानमस्पृष्टा सती असिता कृष्णा । भ्रूश्च अनावर्जिता प्रयत्नेन केनचित् अनामिता सती नता वक्रा । अरञ्जितो[ऽपि] लाक्षारसरागादिना अरुणो लोहितः अधरश्चायं [दृश्यमानः । एतत्] सर्वम् अलौकिकं तवेति ॥

नन्वेतन्मदादिकं मधुपानादिहेतुकम्, तत्कथं तेन विभावयितुमुत्सहते ? हेतुफलभावस्य सर्वत्र प्रतिनियमदर्शनात् । तदेतद् व्याहतमुच्यते । न च काव्येऽपि तादृशात्प्रकरणादन्यत्र विरुद्धमाद्रियते । यद् वक्ष्यति दोषपरिसंख्याने देशकालकलालोकन्यायागमविरोधे ३. ३१८ एतदाशङ्क्य ब्रवीति—

यदपीतादिजन्म स्यात् क्षीबत्वाद्यन्यहेतुजम् ।
अहेतुकं च तस्येह विवक्षेत्यविरुद्धता ॥ २०० ॥

क्षीबत्वमादिर्यस्यामलत्वादेः श्लोकद्वयनिर्दिष्टस्य कार्यस्य तत्तथा यत् क्षीबत्वादिकार्यं पीतादेरपरः शरदागमयौवनोदयलक्षणो हेतुर्यस्येत्यन्यहेतुकं स्याद् भवेत्, अत एव नास्य पीतादेर्जन्मोत्पत्तिरित्यपीतादिजन्म, तदतद्धेतुत्वयोरेकत्र विरोधात् । आदिशब्देन संसृष्टादिकारणं वाक्यद्वयोपात्तं गृह्यते । अत एव [अन्य]हेतुकं च, प्रसिद्धहेतुव्यावृत्तेन अस्य हेतुरस्तीति । न चैवं शङ्कनीयम्, अन्यहेतुकं हि सहेतुकम् । तत्कथमहेतुकं स्यात् ? सहेतुकत्वाहेतुकत्वयोरेकत्र समावेशायोगादिति । नहि येन सहेतुकं तैनेवाहेतुकमुच्यते, यतो विरोधः स्यात् । प्रसिद्धकारणव्यावृत्तेरहेतुकम् । अन्यहेतुकत्वात्तु सहेतुकमिति पर्यायेणाविरोधः । यथा पादवानेवापादश्च, कस्यचित्पादस्याभावात् । तस्य तादृशस्य कार्यस्येह प्रयोगविवक्षा प्रतिपादनाभिंलाषः । साक्षात्तथानुक्तस्यापि सामर्थ्यात् प्रसिद्धस्येतरस्यैवाहेतोरभावेऽनुपपत्तेरवगमः । स्वाभाविकत्वं तु इह न विवक्षितम् । वक्ष्यमाणैव सा विभावना । न च काव्ये सर्वत्र शाब्द्येव प्रतिपत्तिः । सामर्थ्यभाविन्या अपि तस्या दर्शनादिति विस्तरेण प्रथमे परिच्छेदे प्रतिपादितम् । या पुनः शब्दं न्यायं च तादृशं ना[पे]क्षते [सा] सुदुर्लभा । यदुक्तं नहि प्रतीतिः सुलभा शब्दन्यायविलङ्घिनीति १. ७५ । यत एवमिति तस्मादविरुद्धता दृष्टिविरोधः प्राग्भावितो नास्ति अपीतक्षीबेत्यादाविति ॥

वक्त्रं निसर्गसुरभि वपुरव्याजसुन्दरम् ।
अकारणरिपुश्चन्द्रो निर्निमित्तं सुहृत्पुमान् ॥ २०१ ॥