138

परिरम्भेषु रम्भोरु ! पयोधरपराकृतम् ।
नास्ति मध्यं तवेत्येतत् विपर्यस्यति मे मनः ॥
विपर्यासातिशयोक्तिः ।
नीला नेत्रद्युतिः शुद्धा सुदत्या दन्तदीधितिः ।
तस्याः संभिन्नयोर्दत्तो गङ्गायमुनयोः श्रियम् ॥
उपमानुगतातिशयोक्तिः ।
मुखेन्दुहसितज्योत्स्नासङ्गतास्तव सुन्दरि ।
निशाः प्रकाशमायान्ति निमग्नशशिमण्डलाः ॥
रूपकानुगतातिशयोक्तिः ।
नीलया तव लोलाक्षि ! लोलया लोचनत्विषा ।
आपूरिता दिशो भान्ति निशापरिगता इव ॥
उत्प्रेक्षानुगतातिशयोक्तिः ।
एवमन्येऽप्यतिशयोक्तिविकल्पा अनुगन्तव्या इति ॥

॥ इत्यतिशयोक्तिचक्रम् ॥

उत्प्रेक्षामालक्षयन्नाह—

अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा ।
अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्यथा ॥ २१९ ॥

चेतनस्य सजीवस्य अचेतनस्य निर्जीवस्य वस्तुनः वृत्तिः अवस्था अन्यथैव विवक्षितप्रकारापेक्षया अन्येनैव रूपेण यथा भवति [तथा] स्थिता वर्तमाना सती यथावस्थानादन्येन प्रकारेण अन्यथा उत्प्रेक्ष्यते परिकल्प्यते