यदि लिम्पतिः क्रियारूपो नोपमानं शब्दात्मकस्तु दूरोत्सारित एव कारकार्थः, तर्हि कर्तृलक्षणो लिम्पतिरुपमानं भवेत् । नायं पक्षो विरुद्ध्यत इति परमतमुद्भाव्य निरस्यन्नाह—

कर्तां यद्युपमानं स्यान्न्यग्भूतौऽसौ क्रियापदे ।
स्वक्रियासाधनव्यग्रो नालमन्यदपेक्षितुम् ॥ २२८ ॥

कर्ता लेपनक्रियां प्रति स्वतन्त्रः कारकविशेषः उपमानं तमसः स्यात् इति यदि मनुषे, नैषोऽपि पक्षोऽपरिहृतः । यत्रासौ कर्ता य उपमानीक्रियते स्वस्याः स्वस्य वा क्रियाया लेपनस्य साधने निर्वर्तने व्यग्रो व्यापृतः तत्रोपक्षीणसामर्थ्यः । अत एव क्रियापदे लिम्पतीत्यस्मिन् भावप्रधाने तिङ्न्त इत्यतः क्रियाङ्गत्वेनाप्रधानं क्रियाया एव साध्यत्वेन प्राधान्यम् । कारकार्थस्तु तदुपकरणं तत्सिद्धौ हेयत्वादप्रधानम् । सर्वत्रैव हि143 फलाभिसन्धिना प्रवृत्तेन पुरुषेणैतदन्यथानुपपत्त्या तदंशभावेनादेयः परिगृह्यते । फलनिष्पत्तौ तु न किञ्चित् । तेन फलमेव'तु उपादीयते । तदुक्तम्—

उपायाद्वापि येऽहेयास्तानुपायान् प्रचक्षते ।
उपेयं तन्मतं यस्य सिद्धये तत्परिग्रहः ॥
इति । अत एव भावाख्यातं कारकतिङ्न्तं वा सर्वं क्रियाप्रधानं गीयते । तव्याद्यन्तं तु कारकावाचकं भावार्थं च सर्वमेव स्वभावतः सिद्धावस्थाप्रतीतेर्द्रव्यस्य प्रधानभावपरम् । अत एव सर्वत्र गम्यमानत्वाद् एतदपि गीयते- यत्र क्रियापदं न श्रयते तत्रास्तिर्भवतिपरः प्रयुज्यते इति । एतच्च विस्तरेण शब्दार्थचिन्ताविवृतौ चिन्तितमिति ततोऽवधार्यम् । सर्वमेतत् समभिसन्धायन्यग्भूतोऽसौ क्रियापद इत्युक्तम् । कथमतोऽन्यथैतत् कल्प्येत ? यत एवं तस्मादन्यदुपमेयाभिमतं तमो व्यपेक्षितुमुपमानभावेनाश्रयितुं नालं शक्नोति । कथमेका स्थाली पाकमेकं साधयन्ती तदैव पाकान्तरं साधयितुमीहते । उपमानं च प्रसिद्धसाधर्म्येण साध्यसाधनमुच्यते । यथा कान्तत्वेन प्रसिद्धेन चन्द्रेण मुखं कान्तं साध्यते, चन्द्र इव मुखं कान्तमिति । तद्वदिह लेपनक्रियासाधनपरायणः कर्ता न तमस्तथा साधयितुमुत्सहते, असम्भवात् । स्वक्रियापरित्यागेन तु उपमानं भवद् भवेत् । तदा लिम्पतीव तम इति संगच्छते । नहि लेपनक्रियामकुर्वन् लिम्पति नाम । तन्निमित्तत्वादस्य व्यपदेशस्य । अतिप्रसङ्गाच्च । ततश्च यदि लिम्पति कथं तमस उपमानम्, अथोपमानं कथं लिम्पति इति व्याहतमेतत् ॥