143 फलाभिसन्धिना प्रवृत्तेन पुरुषेणैतदन्यथानुपपत्त्या तदंशभावेनादेयः परिगृह्यते । फलनिष्पत्तौ तु न किञ्चित् । तेन फलमेव'तु उपादीयते । तदुक्तम्—

उपायाद्वापि येऽहेयास्तानुपायान् प्रचक्षते ।
उपेयं तन्मतं यस्य सिद्धये तत्परिग्रहः ॥
इति । अत एव भावाख्यातं कारकतिङ्न्तं वा सर्वं क्रियाप्रधानं गीयते । तव्याद्यन्तं तु कारकावाचकं भावार्थं च सर्वमेव स्वभावतः सिद्धावस्थाप्रतीतेर्द्रव्यस्य प्रधानभावपरम् । अत एव सर्वत्र गम्यमानत्वाद् एतदपि गीयते- यत्र क्रियापदं न श्रयते तत्रास्तिर्भवतिपरः प्रयुज्यते इति । एतच्च विस्तरेण शब्दार्थचिन्ताविवृतौ चिन्तितमिति ततोऽवधार्यम् । सर्वमेतत् समभिसन्धायन्यग्भूतोऽसौ क्रियापद इत्युक्तम् । कथमतोऽन्यथैतत् कल्प्येत ? यत एवं तस्मादन्यदुपमेयाभिमतं तमो व्यपेक्षितुमुपमानभावेनाश्रयितुं नालं शक्नोति । कथमेका स्थाली पाकमेकं साधयन्ती तदैव पाकान्तरं साधयितुमीहते । उपमानं च प्रसिद्धसाधर्म्येण साध्यसाधनमुच्यते । यथा कान्तत्वेन प्रसिद्धेन चन्द्रेण मुखं कान्तं साध्यते, चन्द्र इव मुखं कान्तमिति । तद्वदिह लेपनक्रियासाधनपरायणः कर्ता न तमस्तथा साधयितुमुत्सहते, असम्भवात् । स्वक्रियापरित्यागेन तु उपमानं भवद् भवेत् । तदा लिम्पतीव तम इति संगच्छते । नहि लेपनक्रियामकुर्वन् लिम्पति नाम । तन्निमित्तत्वादस्य व्यपदेशस्य । अतिप्रसङ्गाच्च । ततश्च यदि लिम्पति कथं तमस उपमानम्, अथोपमानं कथं लिम्पति इति व्याहतमेतत् ॥

स्यादेतत् । यथा स्वक्रिया न विरुद्ध्यते, उपमानं च तमसः स्यात् तथोच्यतेयो लेपनं करोति तेन तुल्यं तम इति सर्वं सुस्थम् । तदेतदुद्भाव्य निराकुर्वन्नाह—

यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतः ।
अङ्गानीति न सम्बद्धं सोऽपि मृग्यः समो गुणः ॥ २२९ ॥

यः कश्चिद् देवदत्तादिर्लिम्पति लिपिक्रियामाचरति अमुना तेन लिपिक्रियाविशिष्टेन कर्त्रा तुल्यं तम इत्येवमपि यः शंसति घटनां मन्यते, तस्यैवं शंसतो योजयतो वादिनो मतेन यदेतल्लिम्पतीवाङ्गानीत्यत्राङ्गानीति व्याप्यपदं तत्सम्बद्धं न स्यात् असङ्गतं भवेत् । तथा हि यदा लेपनमात्रं व्याप्यनिरपेक्षमात्मसमवेतं भवनादिवत् करोतीति शस्यते, तदाङ्गानीति व्याप्यं केन सम्बध्यताम् ? लेपनेन कर्तृमात्रानु-