स्यादेतत् । यथा स्वक्रिया न विरुद्ध्यते, उपमानं च तमसः स्यात् तथोच्यतेयो लेपनं करोति तेन तुल्यं तम इति सर्वं सुस्थम् । तदेतदुद्भाव्य निराकुर्वन्नाह—

यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतः ।
अङ्गानीति न सम्बद्धं सोऽपि मृग्यः समो गुणः ॥ २२९ ॥

यः कश्चिद् देवदत्तादिर्लिम्पति लिपिक्रियामाचरति अमुना तेन लिपिक्रियाविशिष्टेन कर्त्रा तुल्यं तम इत्येवमपि यः शंसति घटनां मन्यते, तस्यैवं शंसतो योजयतो वादिनो मतेन यदेतल्लिम्पतीवाङ्गानीत्यत्राङ्गानीति व्याप्यपदं तत्सम्बद्धं न स्यात् असङ्गतं भवेत् । तथा हि यदा लेपनमात्रं व्याप्यनिरपेक्षमात्मसमवेतं भवनादिवत् करोतीति शस्यते, तदाङ्गानीति व्याप्यं केन सम्बध्यताम् ? लेपनेन कर्तृमात्रानु-144 बन्धिना । अलब्धसम्बन्धमर्थान्तरवदसङ्गतमङ्गं स्यादिति यावत् । ननु योऽङ्गानि लिम्पति तेन तुल्यं तमोविवक्षायां कथमसम्बन्धः ? नन्वेवमपि लेपनविषयमङ्गमर्थान्तरम् अपेक्षमाणः कर्ता कथमर्थान्तरं तमोऽपेक्षितुमीष्टे ? लेपनं तु आत्मगतं भवनादिवदङ्गवदनर्थान्तरमविनिर्भागवर्ति निर्वर्तयन्नपेक्षतापि तमः अम्युपगतमेतत् । इदमपि वा भवेत् कथञ्चित् । तथापि नोपमानोपमेयभावः, साधर्म्यादर्शनादिति । मूलमुद्धरन्नाह- सोऽपीत्यादि । पूर्वं साधर्म्यमभ्युपगम्य सर्वमुक्तं येन गुणेनोपमा सोऽपि समः साधारणो द्वयोः वृत्तेः, कान्त्यादिवत् । गुणो धर्मो मृग्यः अन्विष्यताम् । इह तावन्न दृश्यते । तथाहि लेपनं तावत् कर्तुरेव धर्मः न तमसः, केवलं तत्रोत्प्रेक्ष्यते नापि 70b धर्मान्तरं साधारणम् इहास्ति, विवक्षितं वा । यद् वक्ष्यति न तथा लिम्पतौ लेपादन्यदत्र प्रतीय[ते] इति ॥