144 बन्धिना । अलब्धसम्बन्धमर्थान्तरवदसङ्गतमङ्गं स्यादिति यावत् । ननु योऽङ्गानि लिम्पति तेन तुल्यं तमोविवक्षायां कथमसम्बन्धः ? नन्वेवमपि लेपनविषयमङ्गमर्थान्तरम् अपेक्षमाणः कर्ता कथमर्थान्तरं तमोऽपेक्षितुमीष्टे ? लेपनं तु आत्मगतं भवनादिवदङ्गवदनर्थान्तरमविनिर्भागवर्ति निर्वर्तयन्नपेक्षतापि तमः अम्युपगतमेतत् । इदमपि वा भवेत् कथञ्चित् । तथापि नोपमानोपमेयभावः, साधर्म्यादर्शनादिति । मूलमुद्धरन्नाह- सोऽपीत्यादि । पूर्वं साधर्म्यमभ्युपगम्य सर्वमुक्तं येन गुणेनोपमा सोऽपि समः साधारणो द्वयोः वृत्तेः, कान्त्यादिवत् । गुणो धर्मो मृग्यः अन्विष्यताम् । इह तावन्न दृश्यते । तथाहि लेपनं तावत् कर्तुरेव धर्मः न तमसः, केवलं तत्रोत्प्रेक्ष्यते नापि