सूक्ष्मलेशसाधारणप्राधान्यकथनेन हेतुं निदर्शयन्नाह—

हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् ।
कारकज्ञापकौ हेतू तौ च नैकविधौ यथा ॥ २३३ ॥

हेतुश्च सूक्ष्मो लेशश्चेति त्रयमेतद् वाचां काव्यानामुत्तमं प्रधानं भूषणम् अलङ्कारः । उत्तमभूषणमेवैतत्त्रयम् । नत्विदमेव अतिशयोक्त्यादेरपि तथाभावात् । एवं च ब्रुवता [यद्भामहोक्तिविरोधो] भवति, तन्निरस्तम् । [तथा च]—

हेतुश्च सूक्ष्मलेशौ च नालङ्कारतया मताः ।
समुदायाभिधेयस्य वक्रोक्त्या नाभिधानतः ॥ इति ।
87 इह जनको बीजादिर्गमकश्च धूमादिरिति हेतुद्वयं दृश्यते । तत्र कतमोऽयं हेतुः ? द्विविधोऽप्यत्र गृहीत इत्याह- कारकेत्यादि । कारको भावाभावरूपस्य कार्यस्य जनकः, ज्ञापकश्च सत एव कस्यचित् सम्बन्धात् 71a कुतश्चित्प्रतिपादक इति कारकज्ञापकौ हि भुवि ज्ञेयौ । तौ च कारकज्ञापकौ । नैको विचित्रो विधः प्रकारो ययोरिति नैकविधौ भवतः । जन्यकार्यवैचित्र्यात् । यथेत्युदाहरति ॥

  1. काव्यालङ्कारे २.८६