145

व्यवहारार्थमुत्प्रेक्षासूचकान् शब्दान् दर्शयन्नाह—

मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यजते शब्दैरिवशब्दोऽपि तादृशः ॥ २३२ ॥

इत्येवंरूपः शब्दराशिरादिर्येषां तर्कयामि कल्पयामि उत्पश्यामि यथेत्येवमादीनां तैः शब्दैरुत्प्रेक्षा उक्तलक्षणा शब्दान्तरोक्ताप्यव्यक्ता सती व्यज्यते द्योत्यते । इवशब्दोप्युक्तेन विधिना तादृश उत्प्रेक्षाव्यञ्जकः । न केवलमेत इति ॥

॥ इत्युत्प्रेक्षाचक्रम् ॥

सूक्ष्मलेशसाधारणप्राधान्यकथनेन हेतुं निदर्शयन्नाह—

हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् ।
कारकज्ञापकौ हेतू तौ च नैकविधौ यथा ॥ २३३ ॥

हेतुश्च सूक्ष्मो लेशश्चेति त्रयमेतद् वाचां काव्यानामुत्तमं प्रधानं भूषणम् अलङ्कारः । उत्तमभूषणमेवैतत्त्रयम् । नत्विदमेव अतिशयोक्त्यादेरपि तथाभावात् । एवं च ब्रुवता [यद्भामहोक्तिविरोधो] भवति, तन्निरस्तम् । [तथा च]—

हेतुश्च सूक्ष्मलेशौ च नालङ्कारतया मताः ।
समुदायाभिधेयस्य वक्रोक्त्या नाभिधानतः ॥ इति ।
87 इह जनको बीजादिर्गमकश्च धूमादिरिति हेतुद्वयं दृश्यते । तत्र कतमोऽयं हेतुः ? द्विविधोऽप्यत्र गृहीत इत्याह- कारकेत्यादि । कारको भावाभावरूपस्य कार्यस्य जनकः, ज्ञापकश्च सत एव कस्यचित् सम्बन्धात्

  1. काव्यालङ्कारे २.८६