अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
उत्पादयति सर्वत्र प्रीतिं मलयमारुतः ॥ २३४ ॥

146 अयमनुभूयमानो मलयमारुतो दक्षिणोऽनिलः सर्वत्र लोकस्य प्रीतिं प्रमोदमुत्पादयति करोति । किंविशिष्टः ? आन्दोलितानि आकम्पितानि अप्रौढ़ानि अभिनवानि चन्दनद्रुमाणां पल्लवानि येन स तादृशः सुरभिः शिशिरो मृदुश्च उत्पादयति इति प्रकृतम् ॥