155
पाणिपद्मानि भूपानां सङ्कोचयितुमीशते ।
त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः ॥ २५७ ॥

देव ! तव पादानां नखाश्चन्द्राः कान्त्यादिना तेषामर्च्चिषः किरणाः कुन्दकुसुमनिर्मलाः शुद्धाः भूपानां राज्ञां पाणीन् पद्मानि कान्त्यादिना सङ्कोचयितुं प्रणतिकरसम्पुटरूपेण मीलयितुमीशते कल्पन्ते । युक्तकारी चित्रहेतुरेवंविधः, चन्द्रतः पङ्कजसंकोचस्योचितत्वादिति ॥

हेतुमुपसं[हरन्नाह]—

इति हेतुविकल्पस्य दर्शिता गतिरीदृशी ।

इति कथितेन विधिना हेतोर्विकल्पस्य प्रभेदस्य सामान्यरूपानुगतस्य गतिः स्वरूपमीदृशी कथितरूपा दर्शिता प्रतिपादिता ॥

॥ इति हेतुचक्रम् ॥

सूक्ष्ममालक्षयन्नाह—

इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात् सूक्ष्म इति स्मृतः ॥ २५८ ॥

संप्रति सूक्ष्मो लक्ष्यते । इङ्गितं कस्यचिदन्तर्गस्य भावस्य ज्ञापनार्थं तादृशि प्रस्तावे बुद्धिपूर्वकं क्रियमाणं तादृशं कायिकं चेष्टितम् । आकारस्तु स्वयमेव भावानुरूपमाविर्भवन् तत्सूचकमवस्थान्तरं शरीरस्येत्यनयोर्भेदः । ताभ्यां लक्ष्यो गम्योऽर्थः कश्चिदन्तर्मात्राधिरूढः सुरतोत्सवादिः सूक्ष्मः इति स्मृतो विज्ञायते तज्ज्ञैः । कुतः ? शब्दालोकातिवर्तिनो वस्तुनः कायविज्ञप्तिमात्रेण तादृशेन लक्ष्यतया सौक्ष्म्यात् सूक्ष्मत्वात् तथाविधैरेव ग्रहणादिति ॥

[इङ्गितलक्ष्य]सूक्ष्ममुदाहरति—

कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् ।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ २५९ ॥