तद् व्याचष्टे—

इत्यनुद्भिन्नरूपत्वाद्रत्युत्सवमनोरथः ।
अनुल्लंघ्यैव सूक्ष्मत्वमभूदत्र व्यवस्थितः ॥ २६२ ॥

157 इत्युक्तेन प्रकारेण रतिः सुरतमुत्सवो महः प्रीतिविशेषलक्षणत्वात् तस्मिन् मनोरथोऽभिलाषः । सूक्ष्मत्वं दुरुपलक्षणत्वमनुल्लङ्घ्य अनतिक्रम्यैव सूक्ष्म एव व्यवस्थितो भावरूपेणाभूत् । कुतः ? अनुद्भिन्नमशब्दप्रकाशितमव्यकं रूपं स्वभावो यस्य रत्युत्सवमनोरथस्य तस्य भावः तत्त्वं तस्मात् । अत्राप्याकारसूक्ष्मप्रयोगे न केवलम् इङ्गितसूक्ष्मलक्ष्ये कदेत्यादाविति ॥