157 इत्युक्तेन प्रकारेण रतिः सुरतमुत्सवो महः प्रीतिविशेषलक्षणत्वात् तस्मिन् मनोरथोऽभिलाषः । सूक्ष्मत्वं दुरुपलक्षणत्वमनुल्लङ्घ्य अनतिक्रम्यैव सूक्ष्म एव व्यवस्थितो भावरूपेणाभूत् । कुतः ? अनुद्भिन्नमशब्दप्रकाशितमव्यकं रूपं स्वभावो यस्य रत्युत्सवमनोरथस्य तस्य भावः तत्त्वं तस्मात् । अत्राप्याकारसूक्ष्मप्रयोगे न केवलम् इङ्गितसूक्ष्मलक्ष्ये कदेत्यादाविति ॥

॥ इति सूक्ष्मचक्रम् ॥

लेशमादर्शयन्नाह- यो लव इत्युद्दिष्टः—

लेशो लेशेन निर्भिन्नवस्तुरूपनिगूहनम् ।
उदाहरण एवास्य रूपमाविर्भविष्यति ॥ २६३ ॥

निर्भिन्नस्याकारात् तादृशात् कुतश्चित् प्रकटीभूतस्य वस्तुरूपस्यार्थात्मनः कस्यचिदनुरागादेर्लेशेन व्याजेन केनचित् निगूहनं कथञ्चित्संवरणमित्यनूद्य लेशो विधीयते । एवमप्यनभिव्यक्तस्वभाव इत्याह- उदाहरणे लक्ष्य एवास्य रूपं स्वभाव आविर्भविष्यति प्रकटती यास्यति । ततस्तत्रैव परिस्फुटमवगम्यतामिति ॥

तमुदाहरन्नाह—

राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः ।
अवगच्छेयुरा ज्ञातमहो शीतानीलं वनम् ॥ २६४ ॥

राज्ञः कन्यायां कस्याञ्चिदनुरक्तमुद्भूताभिलाषम् मामवगच्छेयुर्जानीयुः रक्षकाः तत्परिपालनाधिंकृता वर्षवरादयः । कथम् ? रोम्णामुद्भेदेन हर्षणानुरागकार्यतया तज्ज्ञापकेन हेतुना । किमिदमासीदिति रोमाञ्चेन निर्भिन्नमनुरागलक्षणं वस्तुरूपमिह तावद्दर्शितम्, तदिदानीं कारणान्तरोपन्यासेन लेशेन निगूह्यते । आः स्मृतिप्रतिलम्भे, ज्ञातं भवतु दृष्टम् । अहो