तमुदाहरन्नाह—

राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः ।
अवगच्छेयुरा ज्ञातमहो शीतानीलं वनम् ॥ २६४ ॥

राज्ञः कन्यायां कस्याञ्चिदनुरक्तमुद्भूताभिलाषम् मामवगच्छेयुर्जानीयुः रक्षकाः तत्परिपालनाधिंकृता वर्षवरादयः । कथम् ? रोम्णामुद्भेदेन हर्षणानुरागकार्यतया तज्ज्ञापकेन हेतुना । किमिदमासीदिति रोमाञ्चेन निर्भिन्नमनुरागलक्षणं वस्तुरूपमिह तावद्दर्शितम्, तदिदानीं कारणान्तरोपन्यासेन लेशेन निगूह्यते । आः स्मृतिप्रतिलम्भे, ज्ञातं भवतु दृष्टम् । अहो 75b अतिशये । शीतोऽनिलो यस्मिन् तच्छीतानिलम् अहो यथेदं वनम् यतो रोमाञ्चो जायत इति रोमोद्भेदस्य शिशिरमारुतसंसर्गादप्युपपत्तेरन्यथासिद्ध्या निर्भिन्नोऽनुरागो निगूढ़ इति स्पष्टरूपमीदृशम् ॥