75b अतिशये । शीतोऽनिलो यस्मिन् तच्छीतानिलम् अहो यथेदं वनम् यतो रोमाञ्चो जायत इति रोमोद्भेदस्य शिशिरमारुतसंसर्गादप्युपपत्तेरन्यथासिद्ध्या निर्भिन्नोऽनुरागो निगूढ़ इति स्पष्टरूपमीदृशम् ॥