161 रुत्पलैरीक्षणद्युतिः पङ्कजैर्मुखद्युतिश्चोरितेति यथोद्देशमयमनुदेशः । वस्तुतोऽतथाभावाद् ध्रुवमित्युत्प्रेक्ष्यते ।

यद्येवमुत्प्रेक्षेयं कथं यथासंख्यमिति चेत् ? यद्येवं निरूप्यते, उपमाप्यत्र विद्यते, स्मितादीनां कुमुदादिभिः सादृश्यप्रतीतेः । तस्माद्यत्रालङ्कारान्तरमपि प्रतीयते, तत्रापि उद्देशानुरूपानुदेशसंख्यातमेवालङ्कारो व्यवह्रियते । तायैव मुख्यता, विवक्षितत्वात् । यत्र तु अलङ्कारान्तरं न गम्यते तत्र सुतरामेव क्रम इति विज्ञेयम् ॥

॥ इति क्रमः ॥

प्रेयोरसवदूर्जस्वीत्यलङ्कारत्रयं लक्षयन्नाह—

प्रेयः प्रियतराख्यानं रसवद्रसपेशलम् ।
ऊर्जस्वि रूढ़ाहङ्कारं युक्तोत्कर्ष च तत् त्रयम् ॥ २७३ ॥

प्रियतरस्यातिशयेन प्रियस्यार्थरूपस्य कस्यचिदाख्यानं प्रतिपादनम् आख्यायते अनेनेत्यनूद्य प्रेय इति ज्ञाप्यते । रसेन शृङ्गारादिना प्रतिपाद्येन पेशलं मनोज्ञं रसवद् वाक्यं विज्ञेयम् । रूढ़ो दीप्तोऽहङ्कारः सौटीर्यं यत्र तादृशं वचनमूर्जस्वि ज्ञेयम् । तच्चैतत्त्रयं प्रेयो रसवत् ऊर्जस्वि च युक्तः सङ्गतः उत्कर्षोऽधिमात्रता येनेति युक्तोत्कर्षमत्यन्तप्रियमेकान्तरसवत् भृशमूर्जस्वीत्यर्थः । अयं चार्थः- अयमु[प]मादिभिरतिशयविधिभिरुक्तो युक्तोत्कर्ष इति ॥

प्रेयस्तावदुदाहरन्नाह—

अद्य या मम गोविन्द ! जाता त्वयि गृहागते ।
कालेनैषा भवेत् प्रीतिस्तवैवागमनात् पुनः ॥ २७४ ॥

गोविन्द विष्णो ! त्वयि गृहमिदमस्मदीयमतिधन्यमागते सति या प्रीतिः तुष्टिः अद्य अस्मिन् पुण्याहे मम जाता एषा इयं प्रीतिः कालेन पुनरीदृशेन शुभेन समयेन केनचित् तवैव नान्यस्य । कस्त्वादृशः ? आगमनादुपसंक्रमण