तदेतन्मनसि 118a कृत्याह—

इत्यादिशास्त्रमाहात्म्यदर्शनालसचेतसाम् ।
अपभाषणवद् भाति न च सौभाग्यमुज्झति ॥ १५१ ॥

264 इत्येवंविधं लक्ष्यम् । अपभाषणवत् शब्द[हीन]मिवाभाति प्रतिभासते । केषाम् ? शास्त्रं शब्दलक्षणादिकम् । तस्य माहात्म्यं प्रभावः । एवंविधलक्ष्यसंग्राहकत्वम् । तस्य दर्शनमभ्यासः तत्रालसं मन्दं चेतो येषामिति [शास्त्रमाहात्म्यदर्शनालसचेत]साम् शास्त्रमाहात्म्यदर्शनेन नेदृशी भ्रान्तिरुपजायते, तस्याज्ञ[त्वा]पनोदित्वात् । यथोक्तम्—

शास्त्रं मोहनिवर्तनम्
148 इति । न चेदृशं सौभाग्यं साधुतामुज्झति त्यजति । सुभगेनेवेदृशं सदृशः । यथोक्तं प्रागस्माभिरिति ॥

  1. प्रमाणवार्त्तिके १. ७